Jump to content
फॉलो करें Whatsapp चैनल : बैल आईकॉन भी दबाएँ ×
JainSamaj.World

रत्नाक्रंद श्रावकाचार


admin

नम: श्रीवद्र्धमानाय निर्धूतकलिलात्मने।

सालोकानां त्रिलोकानां यद्विद्या दर्पणायते॥ 1॥

 

देशयामि समीचीनं, धर्मं कर्मनिबर्र्हणम्।

संसारदु:खत: सत्त्वान्, यो धरत्युत्तमे सुखे॥ 2॥

 

सद्दृष्टिज्ञानवृत्तानि, धर्मं धर्मेश्वरा विदु:।

यदीयप्रत्यनीकानि, भवन्ति भवपद्धति:॥ 3॥

 

श्रद्धानं परमार्थाना-माप्तागम-तपोभृताम् ।

त्रिमूढापोढ- मष्टाङ्गं, सम्यग्दर्शन-मस्मयम्॥ 4॥

 

आप्तेनोच्छिन्नदोषेण, सर्वज्ञेनागमेशिना।

भवितव्यं नियोगेन, नान्यथा ह्याप्तता भवेत्॥ 5॥

 

क्षुत्पिपासा-जरातङ्क -जन्मान्तक-भयस्मया:।

न रागद्वेषमोहाश्च, यस्याप्त: स प्रकीत्र्यते॥ 6॥

 

परमेष्ठी परंज्योतिर्र्विरागो विमल: कृती।

सर्वज्ञोऽनादिमध्यान्त:, सार्व: शास्तोपलाल्यते॥ 7॥

 

अनात्मार्थं विना रागै:, शास्ता शास्ति सतो हितम्।

ध्वनन् शिल्पिकरस्पर्शान्मुरज: किमपेक्षते॥ 8॥

 

आप्तोपज्ञमनुल्लङ्घ्य- मदृष्टेष्टविरोधकम्।

तत्त्वोपदेशकृत्सार्वं, शास्त्रं कापथघट्टनम्॥ 9॥

 

विषयाशावशातीतो, निरारम्भोऽपरिग्रह:।

ज्ञानध्यानतपोरक्त स् तपस्वी स प्रशस्यते॥ 10॥

 

इदमेवेदृशमेव, तत्त्वं नान्यन्न चान्यथा।

इत्यकम्पायसाम्भोवत्, सन्मार्गेऽसंशयारु चि:॥ 11॥

 

कर्मपरवशे सान्ते, दु:खैरन्तरितोदये।

पापबीजे सुखेऽनास्था, श्रद्धानाकाङ्क्षणा स्मृता॥ 12॥

 

स्वभावतोऽशुचौ काये, रत्नत्रयपवित्रिते।

निर्जुगुप्सा गुणप्रीतिर्मता निर्विचिकित्सिता॥ 13॥

 

कापथे पथि दु:खानां, कापथस्थेऽप्यसम्मति:।

असम्पृक्ति-रनुत्कीर्ति-रमूढा दृष्टिरुच्यते॥ 14॥

 

स्वयं शुद्धस्य मार्गस्य, बालाशक्तजनाश्रयाम्।

वाच्यतां यत्प्रमार्जन्ति, तद्वदन्त्युपगूहनम्॥ 15॥

 

दर्शनाच्चरणाद्वापि,चलतां धर्मवत्सलै:।

प्रत्यवस्थापनं प्राज्ञै:, स्थितीकरणमुच्यते॥ 16॥

 

स्वयूथ्यान्प्रति सद्भाव-सनाथापेतकैतवा।

प्रतिपत्तिर्यथायोग्यं, वात्सल्यमभिलप्यते॥ 17॥

 

अज्ञानतिमिरव्याप्तिमपाकृत्य यथायथम्।

जिनशासनमाहात्म्यप्रकाश: स्यात्प्रभावना॥ 18॥

 

तावदञ्जनचौरोऽङ्गे, ततोऽनन्तमति: स्मृता।

उद्दायनस्तृतीयेऽपि, तुरीये रेवती मता॥ 19॥

 

ततो जिनेन्द्रभक्तोऽन्यो, वारिषेणस्तत: पर:।

विष्णुश्च वज्रनामा च, शेषयोर्लक्ष्यतां गतौ॥ 20॥

 

नाङ्गहीनमलं छेत्तुं, दर्शनं जन्मसन्ततिम् ।

न हि मन्त्रोऽक्षरन्यूनो, निहन्ति विषवेदनाम्॥ 21॥

 

आपगा-सागर-स्नानमुच्चय: सिकताश्मनाम्।

गिरिपातोऽग्निपातश्च, लोकमूढं निगद्यते ॥ 22॥

 

वरोपलिप्सयाशावान्, रागद्वेषमलीमसा:।

देवता यदुपासीत, देवतामूढमुच्यते ॥ 23॥

 

सग्रन्थारम्भहिंसानां, संसारावर्तवर्तिनाम्।

पाषण्डिनां पुरस्कारो, ज्ञेयं पाषण्डिमोहनम्॥ 24॥

 

ज्ञानं पूजां कुलं जातिं, बलमृद्धिं तपो वपु:।

अष्टावाश्रित्य मानित्वं, स्मयमाहुर्गतस्मया:॥ 25॥

 

स्मयेन योऽन्यानत्येति, धर्मस्थान् गर्विताशय:।

सोऽत्येति धर्ममात्मीयं,न धर्मो धार्मिकैर्विना॥ 26॥

 

यदि पापनिरोधोऽन्यसम्पदा किं प्रयोजनम्।

अथपापास्रवोऽस्त्यन्यसम्पदा किं प्रयोजनम्॥ 27॥

 

सम्यग्दर्शनसम्पन्नमपि मातङ्गदेहजम्।

देवा देवं विदुर्भस्मगूढाङ्गारान्तरौजसम् ॥ 28॥

 

श्वापि देवोऽपि देव: श्वा, जायते धर्मकिल्विषात्।

काऽपि नाम भवेदन्या, सम्पद्धर्माच्छरीरिणाम्॥ 29॥

 

भयाशास्नेहलोभाच्च, कुदेवागमलिङ्गिनाम्।

प्रणामं विनयं चैव, न कुय्र्यु: शुद्धदृष्टय:॥ 30॥

 

दर्शनं ज्ञानचारित्रात्साधिमानमुपाश्नुते ।

दर्शनं कर्णधारं तन्मोक्षमार्गे प्रचक्षते॥ 31॥

 

विद्यावृत्तस्य सम्भूतिस्थितिवृद्धिफलोदया:।

न सन्त्यसति सम्यक्त्वे, बीजाभावे तरोरिव॥ 32॥

 

गृहस्थो मोक्षमार्गस्थो, निर्मोहो नैव मोहवान्।

अनगारो गृही श्रेयान्, निर्मोहो मोहिनो मुने:॥ 33॥

 

न सम्यक्त्वसमं किञिचता्-त्रैकाल्ये त्रिजगत्यपि।

श्रेयोऽश्रेयश्च मिथ्यात्वसमं नान्यत्तनूभृताम्॥ 34॥

 

सम्यग्दर्शनशुद्धा, नारकतिर्यङ्नपुंसकस्त्रीत्वानि।

दुष्कुल-विकृताल्पायुर्दरिद्रतां च व्रजन्ति नाप्यव्रतिका:॥ 35॥

 

ओजस्तेजो-विद्यावीर्ययशोवृद्धि -विजयविभवसनाथा:।

माहाकुला महार्था, मानवतिलका भवन्ति दर्शनपूता:॥ 36॥

 

अष्टगुणपुषिटतुष्टा, दृषिटविशिष्टा: प्रकृष्टशोभाजुष्टा:।

अमराप्सरसां परिषदि, चिरं रमन्ते जिनेन्द्रभक्ता: स्वर्गे॥ 37॥

 

नवनिधिसप्तद्वय रत्नाधीशा: सर्वभूमिपतयश्चक्रम्।

वर्तयितुं प्रभवन्ति, स्पष्टदृश: क्षत्रमौलिशेखरचरणा:॥ 38॥

 

अमरासुरनरपतिभिर्यमधरपतिभिश्च नूतपादाम्भोजा:।

दृष्ट्या सुनिशिचतार्था, वृषचक्रधरा भवन्ति लोकशरण्या:॥ 39॥

 

शिव-मजर-मरुज-मक्षय-मव्याबाधं विशोकभयशङ्कम्।

काष्ठागतसुखविद्या-विभवं विमलं भजन्ति दर्शनशरणा:॥ 40॥

 

देवेन्द्रचक्रमहिमानममेयमानं, राजेन्द्रचक्रमवनीन्द्रशिरोऽर्चनीयम्।

धर्मेन्द्रचक्रमधरीकृतसर्वलोकं, लब्ध्वा शिवं च जिनभक्तिरुपैति भव्य:॥ 41॥

 

अन्यूनमनतिरिक्तं , याथातथ्यं विना च विपरीतात्।

नि:संदेहं वेद यदाहुस्तज्ज्ञानमागमिन: ॥ 42॥

 

प्रथमानुयोगमर्थाख्यानं चरितं पुराणमपि पुण्यम्।

बोधिसमाधिनिधानं, बोधति बोध: समीचीन:॥ 43॥

 

लोकालोकविभक्ते र्युगपरिवृत्तेश्चतुर्गतीनां च।

आदर्शमिव तथामति रवैति करणानुयोगं च ॥ 44॥

 

गृहमेध्यनगाराणां, चारित्रोत्पत्तिवृद्धिरक्षाङ्गम्।

चरणानुयोगसमयं, सम्यग्ज्ञानं विजानाति ॥ 45॥

 

जीवाजीवसुतत्त्वे, पुण्यापुण्ये च बन्धमोक्षौ च।

द्रव्यानुयोगदीप:, श्रुतविद्यालोकमातनुते ॥ 46॥

 

मोहतिमिरापहरणे, दर्शनलाभादवाप्तसंज्ञान:।

रागद्वेषनिवृत्त्यै, चरणं प्रतिपद्यते साधु: ॥ 47॥

 

रागद्वेषनिवृत्तेर्हिंसादिनिवत्र्तना कृता भवति।

अनपेक्षितार्थवृत्ति:, क: पुरुष: सेवते नृपतीन्॥ 48॥

 

हिंसानृतचौर्येभ्यो, मैथुनसेवापरिग्रहाभ्यां च।

पापप्रणालिकाभ्यो, विरति: संज्ञस्य चारित्रम्॥ 49॥

 

सकलं विकलं चरणं, तत्सकलं सर्वसङ्गविरतानाम्।

अनगाराणां विकलं, सागाराणां ससङ्गानाम् ॥ 50॥

 

गृहिणां त्रेधा तिष्ठत्यणु-गुण-शिक्षाव्रतात्मकं चरणम्।

पञ्चत्रिचतुर्भेदं त्रयं यथासंख्य-माख्यातम् ॥ 51॥

 

प्राणातिपातवितथव्याहारस्तेयकाममूच्र्छाभ्य: ।

स्थूलेभ्य: पापेभ्यो, व्युपरमणमणुव्रतं भवति॥ 52॥

 

सङ्कल्पात्कृतकारितमननाद्योगत्रयस्य चरसत्त्वान्।

न हिनस्ति यत्तदाहु:, स्थूलवधाद्विरमणं निपुणा:॥ 53॥

 

छेदनबन्धनपीडऩमतिभारारोपणं व्यतीचारा:।

आहारवारणापि च, स्थूलवधाद्व्युपरते: पञ्च॥ 54॥

 

स्थूलमलीकं न वदति, न परान् वादयति सत्यमपि विपदे।

यत्तद्वदन्ति सन्त:, स्थूलमृषावादवैरमणम्॥ 55॥

 

परिवादरहोभ्याख्या, पैशुन्यं कूटलेखकरणं च।

न्यासापहारितापि च, व्यतिक्रमा: पञ्च सत्यस्य ॥ 56॥

 

निहितं वा पतितं वा, सुविस्मृतं वा परस्वमविसृष्टं।

न हरति यन्न च दत्ते, तदकृशचौय्र्यादुपारमणम् ॥ 57॥

 

चौरप्रयोगचौरार्था- दानविलोपसदृशसनिमश्रा:।

हीनाधिकविनिमानं, पञ्चास्तेये व्यतीपाता: ॥ 58॥

 

न तु परदारान् गच्छति, न परान् गमयति च पापभीतेर्यत्।

सा परदारनिवृत्ति:, स्वदारसन्तोषनामापि॥ 59॥

 

अन्यविवाहाकरणानङ्गक्रीड़ा-विटत्व-विपुलतृष:।

इत्वरिकागमनं चास्मरस्य पञ्च व्यतीचारा:॥ 60॥

 

धनधान्यादिग्रन्थं, परिमाय ततोऽधिकेषु नि:स्पृहता।

परिमितपरिग्रह: स्यादिच्छापरिमाणनामापि॥ 61॥

 

अतिवाहनातिसंग्रह-विस्मयलोभातिभारवहनानि।

परिमितपरिग्रहस्य च, विक्षेपा: पञ्च लक्ष्यन्ते॥ 62॥

 

पञ्चाणुव्रतनिधयो, निरतिक्रमणा: फलन्ति सुरलोकम्।

यत्रावधिरष्टगुणा, दिव्यशरीरं च लभ्यन्ते ॥ 63॥

 

मातङ्गो धनदेवश्च, वारिषेणस्तत: पर:।

नीली जयश्च सम्प्राप्ता:, पूजातिशयमुत्तमम् ॥ 64॥

 

धनश्रीसत्यघोषौ च, तापसारक्षकावपि।

उपाख्येयास्तथा श्मश्रु-, नवनीतो यथाक्रमम्॥ 65॥

 

मद्यमांसमधुत्यागै:, सहाणुव्रतपञ्चकम्।

अष्टौ मूलगुणानाहुर्गृहिणां श्रमणोत्तमा:॥ 66॥

 

दिग्व्रतमनर्थदण्ड, व्रतं च भोगोपभोगपरिमाणम्।

अनुबृंहणाद्गुणाना-, माख्यान्ति गुणव्रतान्यार्या:॥ 67॥

 

दिग्वलयं परिगणितं, कृत्वातोऽहं बहिर्न यास्यामि।

इति सङ्कल्पो दिग्व्रत-,मामृत्यणुपापविनिवृत्त्यै॥ 68॥

 

मकराकरसरिदटवी, गिरिजनपदयोजनानि मर्यादा:।

प्राहुर्दिशां दशानां, प्रतिसंहारे प्रसिद्धानि॥ 69॥

 

अवधेर्बहिरणुपाप-, प्रतिविरतेर्दिग्व्रतानि धारयताम्।

पञ्चमहाव्रतपरिणति-,मणुव्रतानि प्रपद्यन्ते ॥ 70॥

 

प्रत्याख्यानतनुत्वात्, मन्दतराश्चरणमोहपरिणामा:।

सत्त्वेन दुरवधारा, महाव्रताय प्रकल्प्यन्ते॥ 71॥

 

पञ्चानां पापानां, हिंसादीनां मनोवच:कायै:।

कृतकारितानुमोदैस्त्यागस्तु महाव्रतं महताम् ॥ 72॥

 

ऊध्र्वाधस्तात्तिर्यग्व्यतिपाता: क्षेत्रवृद्धि-रवधीनाम्।

विस्मरणं दिग्िवरतेरत्याशा: पञ्च मन्यन्ते॥ 73॥

 

अभ्यन्तरं दिगवधेरपार्थिकेभ्य: सपापयोगेभ्य:।

विरमणमनर्थदण्ड-, व्रतं विदुव्र्रतधराग्रण्य:॥ 74॥

 

पापोपदेश-हिंसादानापध्यानदु:श्रुती: पञ्च।

प्राहु: प्रमादचर्या-, मनर्थदण्डानदण्डधरा:॥ 75॥

 

तिर्यक्क्लेशवणिज्या-, हिंसारम्भप्रलम्भनादीनाम् ।

प्रसव: कथाप्रसङ्ग: , स्मत्र्तव्य: पाप उपदेश:॥ 76॥

 

परशुकृपाणखनित्र-, ज्वलनायुधशृङ्गिशृंखलादीनाम्।

वधहेतूनां दानं, हिंसादानं ब्रुवन्ति बुधा:॥ 77॥

 

वधबन्धच्छेदादे,द्र्वेषाद्रागाच्च परकलत्रादे:।

आध्यानमपध्यानं, शासति जिनशासने विशदा:॥ 78॥

 

आरम्भसङ्गसाहस-, मिथ्यात्वद्वेषराग-मदमदनै:।

चेत: कलुषयतां श्रुति-, रवधीनां दु:श्रुतिर्भवति॥ 79॥

 

क्षितिसलिलदहनपवना-,रम्भं विफलं वनस्पतिच्छेदम्।

सरणं सारणमपि च, प्रमादचर्यां प्रभाषन्ते॥ 80॥

 

कन्दर्पं कौत्कुच्यं, मौखर्यमतिप्रसाधनं पञ्च।

असमीक्ष्य-चाधिकरणं, व्यतीतयोऽनर्थदण्डकृद्विरते:॥ 81॥

 

अक्षार्थानां परिसंख्यानं भोगोपभोगपरिमाणम्।

अर्थवतामप्यवधौ, रागरतीनां तनूकृतये॥ 82॥

 

भुक्त्वा परिहातव्यो,भोगो भुक्त्वा पुनश्च भोक्तव्य:।

उपभोगोऽशनवसनप्रभृति: पाञ्चेन्द्रियो विषय:॥ 83॥

 

त्रसहतिपरिहरणार्थं, क्षौदंर पिशितं प्रमादपरिहृतये।

मद्यं च वर्जनीयं, जिनचरणौ शरणमुपयातै:॥ 84॥

 

अल्पफलबहुविघातान्, मूलक-माद्र्र्राणि शृङ्गवेराणि।

नवनीतनिम्बकुसुमं, कैतक-मित्येव-मवहेयम्॥ 85॥

 

यदनिष्टं तद् व्रतयेद्यच्चानुपसेव्यमेतदपि जह्यात्।

अभिसन्धिकृता विरतिर्विषयाद्योग्याद्व्रतं भवति॥ 86॥

 

नियमो यमश्च विहितौ, द्वेधा भोगोपभोगसंहारात्।

नियम: परिमितकालो, यावज्जीवं यमो ध्रियते॥ 87॥

 

भोजन-वाहन-शयन-स्नान-पवित्राङ्गरागकुसुमेषु ।

ताम्बूल-वसन-भूषण-मन्मथ-सङ्गीतगीतेषु॥ 88॥

 

अद्य दिवा रजनी वा, पक्षो मासस्तथर्तुरयनं वा।

इति कालपरिच्छित्या, प्रत्याख्यानं भवेनिनयम:॥ 89॥

 

विषयविषतोऽनुपेक्षा, नुस्मृतिरतिलौल्यमतितृषाऽनुभवो।

भोगोपभोगपरिमा, व्यतिक्रमा: पञ्च कथ्यन्ते ॥ 90॥

 

देशावकाशिकं वा, सामयिकं प्रोषधोपवासो वा।

वैयावृत्त्यं शिक्षा, व्रतानि चत्वारि शिष्टानि ॥91॥

 

देशावकाशिकं स्यात् कालपरिच्छेदनेन देशस्य।

प्रत्यहमणुव्रतानां, प्रतिसंहारो विशालस्य॥ 92॥

 

गृहहारिग्रामाणां, क्षेत्रनदीदावयोजनानां च।

देशावकाशिकस्य, स्मरन्ति सीम्नां तपोवृद्धा:॥ 93॥

 

संवत्सरमृतुरयनं, मासचतुर्मासपक्षमृक्षं च।

देशावकाशिकस्य, प्राहु: कालावधिं प्राज्ञा:॥ 94॥

 

सीमान्तानां परत:, स्थूलेतरपञ्चपापसन्त्यागात्।

देशावकाशिकेन च, महाव्रतानि प्रसाध्यन्ते॥ 95॥

 

प्रेषणशब्दानयनं, रूपाभिव्यक्तिपुद्गलक्षेपौ।

देशावकाशिकस्य, व्यपदिश्यन्तेऽत्यया: पञ्च॥ 96॥

 

आसमयमुक्ति-मुक्तं, पञ्चाघाना-मशेषभावेन।

सर्वत्र च सामयिका:, सामयिकं नाम शंसन्ति॥ 97॥

 

मूर्धरुहमुष्टिवासो, बन्धं पय्र्यङ्कबन्धनं चापि।

स्थानमुपवेशनं वा, समयं जानन्ति समयज्ञा:॥ 98॥

 

एकान्ते सामयिकं, निव्र्याक्षेपे वनेषु वास्तुषु च।

चैत्यालयेषु वापि च, परिचेतव्यं प्रसन्नधिया॥ 99॥

 

व्यापार-वैमनस्याद्वि, निवृत्त्यामन्तरात्म -विनिवृत्त्या।

सामयिकं बध्नीया-, दुपवासे चैकभुक्ते वा ॥ 100॥

 

सामयिकं प्रतिदिवसं, यथावदप्यनलसेन चेतव्यम्।

व्रतपञ्चक-परिपूरण,- कारणमवधानयुक्तेन॥ 101॥

 

सामयिके सारम्भा:, परिग्रहा नैव सन्ति सर्वेऽपि।

चेलोपसृष्टमुनिरिव, गृही तदा याति यतिभावम्॥ 102॥

 

शीतोष्णदंशमशकपरीषहमुपसर्गमपि च मौनधरा:।

सामयिकं प्रतिपन्ना, अधिकुर्वीरन्नचलयोगा:॥ 103॥

 

अशरण-मशुभ-मनित्यं,दु:ख-मनात्मानमावसामि भवम्।

मोक्षस्तद्विपरीतात्मेति ध्यायन्तु सामयिके॥ 104॥

 

वाक्कायमानसानां, दु:प्रणिधानान्यनादरास्मरणे।

सामयिकस्यातिगमा, व्यज्यन्ते पञ्च भावेन ॥ 105॥

 

पर्वण्यष्टम्यां च, ज्ञातव्य: प्रोषधोपवासस्तु ।

चतुरभ्यवहाय्र्याणां, प्रत्याख्यानं सदेच्छाभि: ॥ 106॥

 

पञ्चानां पापाना-, मलंक्रियारम्भगन्धपुष्पाणाम्।

स्नानाञ्जननस्याना-मुपवासे परिहृतिं कुय्र्यात् ॥ 107॥

 

धर्मामृतं सतृष्ण:, श्रवणाभ्यां पिबतु पाययेद्वान्यान्।

ज्ञानध्यानपरो वा, भवतूपवसन्नतन्द्रालु: ॥ 108॥

 

चतुराहारविसर्जन-, मुपवास: प्रोषध: सकृद्भुक्ति:।

स प्रोषधोपवासो, यदुपोष्यारम्भमाचरति॥ 109॥

 

ग्रहणविसर्गास्तरणान्यदृष्टमृष्टान्यनादरास्मरणे ।

यत्प्रोषधोपवास-, व्यतिलङ्घनपञ्चकं तदिदम् ॥ 110॥

 

दानं वैयावृत्यं, धर्माय तपोधनाय गुणनिधये।

अनपेक्षितोपचारो-, पक्रियमगृहाय विभवेन॥ 111॥

 

व्यापत्तिव्यपनोद:, पदयो: संवाहनं च गुणरागात्।

वैयावृत्यं यावानुपग्रहोऽन्योऽपि संयमिनाम् ॥ 112॥

 

नवपुण्यै: प्रतिपत्ति: सप्तगुणसमाहितेन शुद्धेन।

अपसूनारम्भाणा,-मार्याणामिष्यते दानम् ॥ 113॥

 

गृहकर्मणापि निचितं, कर्म विमाषिर्ट खलु गृहविमुक्तानाम्।

अतिथीनां प्रतिपूजा, रुधिरमलं धावते वारि॥ 114॥

 

उच्चैर्गोत्रं प्रणते,र्भोगो दानादुपासनात्पूजा।

भक्ते: सुन्दररूपं स्तवनात्कीर्तिस्तपोनिधिषु॥ 115॥

 

क्षितिगतमिव वटबीजं, पात्रगतं दानमल्पमपि काले।

फलतिच्छायाविभवं, बहुफलमिष्टं शरीरभृताम्॥ 116॥

 

आहारौषधयोरप्युपकरणावासयोश्च दानेन।

वैयावृत्यं ब्रुवते, चतुरात्मत्वेन चतुरस्रा: ॥ 117॥

 

श्रीषेणवृषभसेने, कौण्डेश: सूकरश्च दृष्टान्ता:।

वैयावृत्यस्यैते, चतुर्विकल्पस्य मन्तव्या: ॥ 118॥

 

देवाधिदेवचरणे, परिचरणं सर्वदु:खनिर्हरणम्।

कामदुहि कामदाहिनि, परिचिनुयादादृतो नित्यम् ॥ 119॥

 

अर्हच्चरणसपर्या, महानुभावं महात्मनामवदत्।

भेक: प्रमोदमत्त:, कुसुमेनैकेन राजगृहे॥ 120॥

 

हरितपिधाननिधाने, ह्यनादरास्मरणमत्सरत्वानि।

वैयावृत्यस्यैते, व्यतिक्रमा: पञ्च कथ्यन्ते॥ 121॥

 

उपसर्गे दुर्भिक्षे, जरसि रुजायां च नि:प्रतीकारे।

धर्माय तनुविमोचनमाहु: सल्लेखनामार्या: ॥ 122॥

 

अन्त:क्रियाधिकरणं, तप:फलं सकलदर्शिन: स्तुवते।

तस्माद्यावद्विभवं, समाधिमरणे प्रयतितव्यम्॥ 123॥

 

स्नेहं वैरं सङ्गं, परिग्रहं चापहाय शुद्धमना:।

स्वजनं परिजनमपि च, क्षान्त्वा क्षमयेत्प्रियैर्वचनै:॥ 124॥

 

आलोच्य सर्वमेन:, कृतकारित-मनुमतं च निव्र्याजम्।

आरोपयेन्महाव्रत, -मामरणस्थायि नि:शेषम्॥ 125॥

 

शोकं भयमवसादं, क्लेदं कालुष्यमरतिमपि हित्वा।

सत्त्वोत्साहमुदीर्य च, मन: प्रसाद्यं श्रुतैरमृतै:॥ 126॥

 

आहारं परिहाप्य, क्रमश: स्निग्धं विवद्र्धयेत्पानम्।

स्निग्धं च हापयित्वा, खरपानं पूरयेत्क्रमश:॥ 127॥

 

खरपानहापनामपि, कृत्वा कृत्वोपवासमपि शक्त्या।

पञ्चनमस्कारमनास्तनुं, त्यजेत्सर्वयत्नेन॥ 128॥

 

जीवितमरणाशंसे , भयमित्रस्मृति-निदाननामान:।

सल्लेखनातिचारा:, पञ्च जिनेन्द्रै: समादिष्टा:॥ 129॥

 

नि:श्रेयस-मभ्युदयं, निस्तीरं दुस्तरं सुखाम्बुनिधिम्।

नि:पिबति पीतधर्मा, सर्वैर्दु:खै-रनालीढ:॥ 130॥

 

जन्म-जरा-मय-मरणै:,शोकै-र्दु:खै-र्भयैश्च परिमुक्तम्।

निर्वाणं शुद्धसुखं नि:श्रेयस-मिष्यते नित्यम्॥ 131॥

 

विद्यादर्शनशक्ति -, स्वास्थ्यप्रह्लादतृप्तिशुद्धियुज:।

निरतिशया निरवधयो, नि:श्रेयसमावसन्ति सुखम्॥ 132॥

 

काले कल्पशतेऽपि च, गते शिवानां न विक्रिया लक्ष्या।

उत्पातोऽपि यदि स्यात्,त्रिलोकसंभ्रान्तिकरणपटु:॥ 133॥

 

नि:श्रेयस-मधिपन्नास्,त्रैलोक्यशिखा-मणिश्रियं दधते।

निष्किट्टिकालिकाच्छवि,-चामीकरभासुरात्मान:॥ 134॥

 

पूजार्थाज्ञैश्वर्यै, र्बल-परिजनकामभोगभूयिष्ठै:।

अतिशयित-भुवन-मद्भुत,-मभ्युदयं फलति सद्धर्म:॥ 135॥

 

श्रावकपदानि देवै-,रेकादश देशितानि येषु खलु।

स्वगुणा: पूर्वगुणै: सह, संतिष्ठन्ते क्रमविवृद्धा:॥ 136॥

 

सम्यग्दर्शनशुद्ध:, संसारशरीरभोगनिर्विण्ण:।

पञ्चगुरुचरणशरणो, दार्शनिकस्तत्त्वपथगृह्य:॥ 137॥

 

निरतिक्रमण-मणुव्रत-, पञ्चकमपि शीलसप्तकं चापि।

धारयते नि:शल्यो, योऽसौ व्रतिनां मतो व्रतिक:॥ 138॥

 

चतुरावत्र्तत्रितयश्,चतु:प्रणाम: स्थितो यथाजात:।

सामयिको द्विनिषद्यसित्र-, योगशुद्धसित्रसन्ध्यमभिवन्दी॥ 139॥

 

पर्वदिनेषु चतुष्र्वपि, मासे मासे स्वशक्तिमनिगुह्य।

प्रोषधनियमविधायी, प्रणधिपर: प्रोषधानशन:॥ 140॥

 

मूलफलशाकशाखा,करीरकन्दप्रसूनबीजानि ।

नामानि योऽत्ति सोऽयं, सचित्तविरतो दयामूर्ति:॥ 141॥

 

अन्नं पानं खाद्यं, लेह्यं नाश्नाति यो विभावर्याम्।

स च रात्रिभुक्तिविरत:, सत्त्वेष्वनुकम्पमानमना:॥ 142॥

 

मलबीजं मलयोनिं, गलन्मलं पूतिगन्धि बीभत्सम्।

पश्यन्नङ्गमनङ्गाद्वि-, रमति यो ब्रह्मचारी स:॥ 143॥

 

सेवाकृषिवाणिज्य-, प्रमुखादारम्भतो व्युपारमति।

प्राणातिपातहेतो, र्योऽसावारम्भविनिवृत्त:॥ 144॥

 

बाह्येषु दशसु वस्तुषु, ममत्वमुत्सृज्य निर्ममत्वरत:।

स्वस्थ: सन्तोषपर: परिचितपरिग्रहाद्विरत:॥ 145॥

 

अनुमतिरारम्भे वा, परिग्रहे ऐहिकेषु कर्मसु वा।

नास्ति खलु यस्य समधी,-रनुमतिविरत: स मन्तव्य:॥ 146॥

 

गृहतो मुनिवनमित्वा, गुरूपकण्ठे व्रतानि परिगृह्य।

भैक्ष्याशनस्तपस्यना्, नुत्कृष्टश्चेलखण्डधर:॥ 147॥

 

पाप-मरातिर्धर्मो, बन्धुर्जीवस्य चेति निशिचन्वन्।

समयं यदि जानीते, श्रेयो ज्ञाता ध्रुवं भवति॥ 148॥

 

येन स्वयं वीतकलङ्कविद्या, दृषिटक्रियारत्नकरण्डभावम्।

नीतस्तमायाति पतीच्छयेव, सर्वार्थसिद्धिसित्रषु विष्टपेषु॥ 149॥

 

सुखयतु सुखभूमि:, कामिनं कामिनीव,

सुतमिव जननी मां, शुद्धशीला भुनक्तु।

कुलमिव गुणभूषा, कन्यका संपुनीता-

जिजनपतिपदपद्म, प्रेक्षिणी दृषिटलक्ष्मी:॥ 150॥



×
×
  • Create New...